वांछित मन्त्र चुनें

यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धन्तं॑ वि॒धवा॑मुरुष्यथः । यु॒वं स॒निभ्य॑: स्त॒नय॑न्तमश्वि॒नाप॑ व्र॒जमू॑र्णुथः स॒प्तास्य॑म् ॥

अंग्रेज़ी लिप्यंतरण

yuvaṁ ha kṛśaṁ yuvam aśvinā śayuṁ yuvaṁ vidhantaṁ vidhavām uruṣyathaḥ | yuvaṁ sanibhyaḥ stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam ||

पद पाठ

यु॒वम् । ह॒ । कृ॒शम् । यु॒वम् । अ॒श्वि॒ना॒ । श॒युम् । यु॒वम् । वि॒धन्त॑म् । वि॒धवा॑म् । उ॒रु॒ष्य॒थः॒ । यु॒वम् । स॒निऽभ्यः॑ । स्त॒नय॑न्तम् । अ॒श्वि॒ना॒ । अप॑ । व्र॒जम् । ऊ॒र्णु॒थः॒ । स॒प्तऽआ॑स्यम् ॥ १०.४०.८

ऋग्वेद » मण्डल:10» सूक्त:40» मन्त्र:8 | अष्टक:7» अध्याय:8» वर्ग:19» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे शिक्षित स्त्री-पुरुषों ! (युवम्) तुम दोनों (ह) अवश्य (कृशम्) क्षीण को (शयुम्) असावधान को (युवम्) तुम (विधन्तम्) विधुर-पत्नीरहित को (विधवाम्) पतिहीन स्त्री को (उरुष्यथः) रक्षित करते हो (युवम्) तुम दोनों (सनिभ्यः) ज्ञान का सेवन करनेवाले श्रोताओं के लिए (सप्तास्यं स्तनयन्तम्) सप्तछन्दों-मन्त्रों से युक्त मुखवाले उपदेष्टा (व्रजम्) वर्जनशील अथिति को (अप-ऊर्णुथः) न रोको, जाने दो ॥८॥
भावार्थभाषाः - सुशिक्षित स्त्री-पुरुषों को चाहिए कि वे क्षीण, असावधान, विधुर और विधवाओं की रक्षा करें तथा वेदवक्ता अथितियों के लिए यत्न-तत्र जाने की सुविधा दें ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे शिक्षितौ स्त्रीपुरुषौ ! (युवम्) युवाम् (ह) खलु (कृशम्) क्षीणम् (शयुम्) असावधानम् (युवम्) युवाम् (विधन्तम्) भ्रान्तम्-सहयोगिनीविहीनम् (विधवाम्) पतिविहीनाम् (उरुष्यथः) रक्षथः “उरुष्यती रक्षाकर्मा” [निरु० ५।२३] (युवम्) युवाम् (सनिभ्यः स्तनयन्तं सप्तास्यं व्रजम्-अप ऊर्णुथः) ज्ञानसम्भक्तृभ्यः श्रोतृभ्यः सप्तास्य सप्तछन्दांसि मन्त्राः-आस्ये मुखे यस्य तं शब्दायमानमुपदेष्टारं व्रजनशीलमतिथिं नावरोधयथः, गमनाय समर्थयथः ॥८॥